मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् १६

संहिता

बृ॒हन्त॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान् ।
स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदि॑न्द्र॒ वाज॑मग्मन् ॥

पदपाठः

बृ॒हन्तः॑ । इत् । नु । ये । ते॒ । त॒रु॒त्र॒ । उ॒क्थेभिः॑ । वा॒ । सु॒म्नम् । आ॒ऽविवा॑सान् ।
स्तृ॒णा॒नासः॑ । ब॒र्हिः । प॒स्त्य॑ऽवत् । त्वाऽऊ॑ताः । इत् । इ॒न्द्र॒ । वाज॑म् । अ॒ग्म॒न् ॥

सायणभाष्यम्

तरुत्रआपद्भिस्तरकहेइन्द्र येपुमांसः सुम्नं सुखकरं त्वामुक्थेभिः उक्थैः शस्त्रैः आविवासान्परिचरे- युः विवासतेर्लेट्यडागमः तेइत् तएवपुमांसः नुक्षिप्रंअविलंबेनबृहन्तोमहान्तः भवन्ति वेतिपूरणः किंच बर्हिःस्तृणानासः वेद्यांबर्हिराच्छादयन्तः येत्वांपरिचरन्ति तेत्वोताइत् त्वयारक्षिताःसन्तएव- पस्त्यावत् गृहसहितंवाजमन्नमग्मन् गच्छन्ति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः