मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् १८

संहिता

धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् ।
अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिन्द्र ॥

पदपाठः

धि॒ष्व । शवः॑ । शू॒र॒ । येन॑ । वृ॒त्रम् । अ॒व॒ऽअभि॑नत् । दानु॑म् । औ॒र्ण॒ऽवा॒भम् ।
अप॑ । अ॒वृ॒णोः॒ । ज्योतिः॑ । आर्या॑य । नि । स॒व्य॒तः । सा॒दि॒ । दस्युः॑ । इ॒न्द्र॒ ॥

सायणभाष्यम्

शूरहेइन्द्र शवस्तादृशंबलंधिष्वधारय दधातेर्लोटिबहुलंछन्दसीतिशपोलुक् छन्दस्युभयथेति वा- आर्धधातुकत्वादिडागमः येनबलेनदानुंदानोःपुत्रं और्णवाभं ऊर्णनाभिः कीटविशेषःऔर्णवाभइत्युच्य- ते तमिवअवाभिनत् बिभेदिथ यद्वा और्णः ऊर्णनाभिः तदाभंतत्सदृशमित्यर्थः ततस्तमोरूपस्यहनना- दार्यायकर्मणामनुष्ठात्रेजनाय कुत्सायराजर्षयेवा ज्योतिः प्रकाशकमादित्यमपावृणोः उद्घाटितवानसि दस्युः कर्मणामुपक्षपयितासवृत्रः सव्यतः तवसव्यपार्श्वेनिषादि त्वयानितरांसन्नोबाधितोवर्तते ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः