मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् १९

संहिता

सने॑म॒ ये त॑ ऊ॒तिभि॒स्तर॑न्तो॒ विश्वा॒ः स्पृध॒ आर्ये॑ण॒ दस्यू॑न् ।
अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू॑प॒मर॑न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ॥

पदपाठः

सने॑म । ये । ते॒ । ऊ॒तिऽभिः॑ । तर॑न्तः । विश्वाः॑ । स्पृधः॑ । आर्ये॑ण । दस्यू॑न् ।
अ॒स्मभ्य॑म् । तत् । त्वा॒ष्ट्रम् । वि॒श्वऽरू॑पम् । अर॑न्धयः । सा॒ख्यस्य॑ । त्रि॒ताय॑ ॥

सायणभाष्यम्

सनेम तान् पुरुषान् संभजेम येते तवोतिभिःपालनैः विश्वाः स्पृधःस्पर्धमानाः सर्वाविशः तरन्तः हिंसन्तः तथाआर्येणआर्यभावेनदस्यूनुपक्षपयितॄन् हिंसन्तोभवन्ति तदस्मभ्यंवशमानय किंतत्तदाह— त्वाष्ट्रंत्वष्टुःसुतंविश्वरूपमेतन्नामकमसुरंअरन्धयः रध्यतिर्वशगमने वशमानयः यद्वा तमसुरमवधीः रधहिंसासंराध्योःरधिजभोरचीतिनुम् इन्द्रः त्वाष्ट्रमवधीदित्ययमर्थः तैत्तिरीयके—विश्वरूपोवैत्वा- ष्ट्रइत्यत्रमहताप्रबंधेनप्रपञ्चितः । किञ्च साख्यस्यसखिभावस्यानुपालनाय त्रितायमहर्षयेवशमानयः यद्वा सनेमतेवयंप्रवृद्धाभवेम येवयंतवरक्षाभिःस्पर्धमानाः प्रजादस्यूंश्च तरन्तोतिक्रामन्तोभवेम सने- मेतिवृद्ध्यर्थआद्युदात्तः यथासनेममित्रावरुनासनन्तइति । सकर्मकश्चेन्मध्योदात्तः सनेमवाजंतवेति । तरन्तः तॄप्लवनतरणयोः शतरिरूपं संज्ञावचनश्चेदन्तोदात्तः यथा तरन्तइवमहनेति ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः