मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् २०

संहिता

अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः ।
अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिन्द्रो॒ अङ्गि॑रस्वान् ॥

पदपाठः

अ॒स्य । सु॒वा॒नस्य॑ । म॒न्दिनः॑ । त्रि॒तस्य॑ । नि । अर्बु॑दम् । व॒वृ॒धा॒नः । अ॒स्त॒रित्य॑स्तः ।
अव॑र्तयत् । सूर्यः॑ । न । च॒क्रम् । भि॒नत् । व॒लम् । इन्द्रः॑ । अङ्गि॑रस्वान् ॥

सायणभाष्यम्

मन्दिनोस्यमदकरमिमंसुवानस्यसुतवतः त्रितस्यतीर्णतमस्यमहर्षेरर्थंवावृधानः सोमेनवर्धमा- नइन्द्रःअर्बुदंअंबूनिददातीति अर्बुदोमेघः अनुस्वारस्यरेफश्छान्दसः यद्वा नामैतत् अर्बुदाख्यमसुरं- न्यस्तः स्तॄहिंसायामित्यस्यलङितिपि बहुलंछन्दसीतिविकरणस्यलुक् गुणेकृतेहल्ङ्यादिनातिलोपः नितरामवधीत् महान्तंचिदर्बुदंनिक्रमीः पदेत्यादिषुअर्बुदवधःस्पष्टमुक्तः किंच अङ्गिरस्वान् अङ्गि- रोभिःसहितइन्द्रःअवर्तयत् असुरहननार्थंवज्रमभ्रामयत् सूर्योन यथासूर्यश्चक्रं भ्रामयति तद्वत् यद्वा यस्मादसुरात् भियासूर्यःस्वकीयंरथचक्रंनावर्तयत् निषेधार्थीयोत्रनकारः वर्तयितुंनाशकत्तंबलंपणी- नांप्रभुमसुरंभिनत् वज्रेणाभिनत् यद्वा द्विचक्रोहिपूर्वंसूर्यस्यरथः तस्यैकंचक्रमिन्द्रेणापहृतं सूर्यइति सुपांसुलुगितिषष्ठ्येकवचनस्यसुः सूर्यस्यसंबन्धिअपहृतंतदेकं चक्रमवर्तयत् रक्षोहननार्थंअभ्रामयत् तेनचक्रेणबलमभिनच्च नश्चार्थे ॥ २० ॥ अहर्गणेषुमाध्यन्दिनसवनेषुतायमानरूपेषुअच्छावाकस्यअहरहःशस्यसंज्ञकमभितष्टेवेतिसूक्तम् नूनंसातइत्येषातस्यान्तेशंसनीया सूत्रितंच—नूनंसातइत्यन्तमुत्तममिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः