मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् ३

संहिता

यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ ।
यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

यः । ह॒त्वा । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । यः । गाः । उ॒त्ऽआज॑त् । अ॒प॒ऽधा । व॒लस्य॑ ।
यः । अश्म॑नोः । अ॒न्तः । अ॒ग्निम् । ज॒जान॑ । स॒म्ऽवृक् । स॒मत्ऽसु॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

यः अहिंमेघं हत्वा मेघहननंकृत्वासप्तसर्पणशीलाः सिन्धून् स्यन्दनशीलाअपः अरिणात् प्रैरयत् यद्वा सप्तगंगायमुनाद्यामुख्यानदीररिणात् रीङ्श्रवणे क्र्यादिः यश्चबलस्यबलनामकस्यासुरस्यअप- धा तत्कर्तृकात्तिरोधानान्निरुद्धागाउदाजत् निरगमयत् अपधा अपपूर्वाद्दधातेरातश्चोपसर्गेइतिभावे- अङ्प्रत्ययः सुपांसुलुगितिपञ्चम्याआकारः यश्चअश्मनोः अश्नुतेव्याप्नोत्यन्तरिक्षमित्यश्मामेघः अत्य- न्तमृदुरूपयोर्मेघयोरन्तर्मध्येवैद्युतमग्निंजजान उत्पादयामास यश्चसमत्सु संभक्षयन्तियोद्धॄणामायूं- षीतिसमदःसङ्ग्रामाः तेषुसंवृक् हिनस्ति वृणक्तेर्हिंसार्थस्यक्विपिरूपं सइन्द्रोनाहमिति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः