मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् ४

संहिता

येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ ।
श्व॒घ्नीव॒ यो जि॑गी॒वाँल्ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

येन॑ । इ॒मा । विश्वा॑ । च्यव॑ना । कृ॒तानि॑ । यः । दास॑म् । वर्ण॑म् । अध॑रम् । गुहा॑ । अक॒रित्यकः॑ ।
श्व॒घ्नीऽइ॑व । यः । जि॒गी॒वान् । ल॒क्षम् । आद॑त् । अ॒र्यः । पु॒ष्टानि॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

येनेन्द्रेणइमा इमानिविश्वाच्यवना नश्वराणिभुवनानिकृतानि स्थिरीकृतानि यश्चदासंवर्णं शुद्रा- दिकं यद्वा दासमुपक्षपयितारंअधरंनिकृष्टमसुरंगुहागुहायांगूढस्थानेनरकेवाअकः अकार्षीत् करोतेर्लु- ङिमन्त्रेघसेत्यादिनाच्लेर्लुकिरूपं लक्षंलक्ष्यंजिगीवान जिजयेक्वसौ सन् लिटोर्जेरिति अभ्यासादुत्तर- पदस्यकुत्वम् दीर्घश्छान्दसः जितवान अर्यः अरेः षष्ठ्येकवचनेछान्दसोयणादेशः शत्रोः संबन्धीनि- पुष्टानिसमृद्धानिधनानिआदत् आदत्ते तत्रदृष्टान्तः—श्वघ्रीव श्वभिर्मृगान् हन्तीतिशघ्रीव्याधः यथा- व्याधोजिघृक्षितंमृगंपरिगृह्णातितद्वत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः