मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् ५

संहिता

यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम् ।
सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

यम् । स्म॒ । पृ॒च्छन्ति॑ । कुह॑ । सः । इति॑ । घो॒रम् । उ॒त । ई॒म् । आ॒हुः॒ । न । ए॒षः । अ॒स्ति॒ । इति॑ । ए॒न॒म् ।
सः । अ॒र्यः । पु॒ष्टीः । विजः॑ऽइव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

अपश्यन्तोजनाघोरंशत्रूणांघातकंयंपृच्छन्तिस्मकुहसेति सइन्द्रः कुत्रवर्ततइति सेति सोचिलोपे- चेत्पादपूरणमितिसोर्लोपेगुणः नक्वचिदसौतिष्ठतीतिमन्यमानाजनाएनमिन्द्रमाहुः एषइन्द्रोनास्तीति तथाचमन्त्रे—नेन्द्रोअस्तीतिनेमउत्वआहेति । ईमितिपूरणः उतापिचसइन्द्रोविजइव इवशब्दएवार्थे उद्वेजकएवसन् अर्योरेःसंबन्धीनिपुष्टीः पोषकाणि गवाश्वादीनिधनानि आमिनाति सर्वतोहिनस्ति मीङ् हिंसायां मीनातेर्निगमेइतिह्रस्वः तस्मात् श्रदस्माइन्द्रायधत्तसइन्द्रोस्तीतिविश्वासमत्रकुरुत यद्यप्यसौविशेषतोस्माभिर्नदृश्यते तथापिअस्तीतिविश्वासंकुरुत एवंनिर्धारणमहिमोपेतः सइन्द्रोना- हमिति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः