मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् ६

संहिता

यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः ।
यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

यः । र॒ध्रस्य॑ । चो॒दि॒ता । यः । कृ॒शस्य॑ । यः । ब्र॒ह्मणः॑ । नाध॑मानस्य । की॒रेः ।
यु॒क्तऽग्रा॑व्णः । यः । अ॒वि॒ता । सु॒ऽशि॒प्रः । सु॒तऽसो॑मस्य । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

यःरध्रस्य रधहिंसासंराध्योः समृद्धस्यचोदिताधनानां प्रेरयिताभवति यश्चकृश्स्यचदरिद्रस्यच यश्चनाधमानस्य नाथृनाधृयाच्ञोपतापैश्वर्याशीःषु याचमानस्यकीरेः करोतेःकीर्तयतेर्वी स्तोतुः ब्रह्म- णोब्राह्मणस्यच धनानांप्रेरयिता यश्चसुशिपःशोभनहनुः सुशीर्षकोवासन् युक्तग्राव्णः अभिषवार्थमु- द्यतग्राव्णः सुतसोमस्याभिषुतसोमस्ययजमानस्याविता रक्षिताभवति सएवेन्द्रोनाहमिति ब्रह्मशब्द- स्यत्वन्नपरत्वेह्याद्युदात्ततास्यात् तथाब्रह्मवन्वानोअजरंसुवीरमिति । अयंत्वन्तोदात्तःपठ्यतइतिना- न्नपरः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः