मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् ७

संहिता

यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः ।
यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

यस्य॑ । अश्वा॑सः । प्र॒ऽदिशि॑ । यस्य॑ । गावः॑ । यस्य॑ । ग्रामाः॑ । यस्य॑ । विश्वे॑ । रथा॑सः ।
यः । सूर्य॑म् । यः । उ॒षस॑म् । ज॒जान॑ । यः । अ॒पाम् । ने॒ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

यस्यसर्वान्तर्यामितयावर्तमानस्यप्रदिशि प्रदेशनेनुशासने अश्वासोश्वावर्तन्ते यस्यानुशासनेगावः यस्यानुशासनेग्रामाः ग्रसन्तेत्रेति ग्रामाजनपदाः यस्याज्ञायांविश्वेसर्वेरथासोरथावर्तन्ते यश्चवृत्रंहत्वा- सूर्यंजजान जनयामास यश्चोषसं तथामन्त्रः—जजानसूर्यमुषसंसुदंसाइति । यश्चमेघभेदनद्वारा अपां- नेताप्रेरकः सइन्द्रइत्यादिप्रसिद्धम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः