मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् ८

संहिता

यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्रा॑ः ।
स॒मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

यम् । क्रन्द॑सी॒ इति॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । वि॒ह्वये॑ते॒ इति॑ वि॒ऽह्वये॑ते । परे॑ । अव॑रे । उ॒भयाः॑ । अ॒मित्राः॑ ।
स॒मा॒नम् । चि॒त् । रथ॑म् । आ॒त॒स्थि॒ऽवांसा॑ । नाना॑ । ह॒वे॒ते॒ इति॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

यंक्रन्दसीरोदसीशब्दंकुर्वाणेमानुषीदेवीचद्वेसेनेवासंयती परस्परंसङ्गच्छन्त्यौयमिन्द्रंविह्वयेते स्वरक्षार्थंविविधमाह्वयतः परेउत्कृष्टाः अवरेअधमाश्चोभयाः उभयविधाः अमित्राः शत्रवः यमाह्व- यन्ति समानंइन्द्ररथसदृशंरथमातस्थिवांसाआस्थितौद्वौरथिनौचित् तमेवेन्द्रंनानापृथक् पृथक् हवेते- आह्वयेते यद्वा समानमेकरथमारूढाविन्द्राग्नीहवेतेयज्ञार्थंयजमानैः पृथगाहूयेते तयोरन्यतरःसइन्द्रो- नाहमिति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः