मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् ९

संहिता

यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते ।
यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

यस्मा॑त् । न । ऋ॒ते । वि॒ऽजय॑न्ते । जना॑सः । यम् । युध्य॑मानाः । अव॑से । हव॑न्ते ।
यः । विश्व॑स्य । प्र॒ति॒ऽमान॑म् । ब॒भूव॑ । यः । अ॒च्यु॒त॒ऽच्युत् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

यस्मादृते जनासोजनाः नविजयन्ते विजयंनप्राप्नुवन्ति अतः युध्यमानायुद्धंकुर्वाणाजनाअवसे- स्वरक्षणायंइन्द्रं हवन्तेआह्वयन्ति यश्चविश्वस्यसर्वस्यजगतः प्रतिमानंप्रतिनिधिर्बभुव यश्चाच्युत- च्युत् अच्युतानांक्षयरहितानांपर्वतादीनांच्यावयितासइन्द्रइत्यादिप्रसिद्धम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः