मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् १०

संहिता

यः शश्व॑तो॒ मह्येनो॒ दधा॑ना॒नम॑न्यमाना॒ञ्छर्वा॑ ज॒घान॑ ।
यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

यः । शश्व॑तः । महि॑ । एनः॑ । दधा॑नान् । अम॑न्यमानान् । शर्वा॑ । ज॒घान॑ ।
यः । शर्ध॑ते । न । अ॒नु॒ऽददा॑ति । शृ॒ध्याम् । यः । दस्योः॑ । ह॒न्ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

यः महिमहत् एनः पापंदधानान् शश्वतोबहून् अमन्यमानान् आत्मानमजानतः इन्द्रमपूजयतो- वाजनान् शर्वा श्रृणातिशत्रूननेनेतिशरुर्वज्रः तेनायुधेनजघान हन्तेर्लिटिरूपं यश्चशर्धतेउत्साहंकुरुते अनात्मज्ञायजनायश्रृध्यां उत्साहनीयंकर्मनानुददाति नप्रयच्छति अनुपूर्वात् हृदाञ् दाने जौहोत्या- दिकः अभ्यस्तानामादिरितितिङि चोदात्तवतीतिगतेर्निघातः यश्चदस्योरुपक्षपयितुःशत्रोर्हन्ताघा- तकः सइन्द्रइत्यादिपूर्ववत् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः