मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् १२

संहिता

यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न् ।
यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह॑न्तं॒ स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

यः । स॒प्तऽर॑श्मिः । वृ॒ष॒भः । तुवि॑ष्मान् । अ॒व॒ऽअसृ॑जत् । सर्त॑वे । स॒प्त । सिन्धू॑न् ।
यः । रौ॒हि॒णम् । अस्फु॑रत् । वज्र॑ऽबाहुः । द्याम् । आ॒ऽरोह॑न्तम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

यःसप्तरश्मिः सप्तसंख्याकाः पर्जन्यारश्मयोयस्य तेचरश्मयः वराहवःस्वतपसोविद्युन्महसोधूपयः शापयोगृहमेधाश्चेत्येते येचमेशिमिविद्विषः पर्जन्याः सप्तपृथिवीमभिवर्षन्तिवृष्टिभिरितितैत्तिरीयार- ण्यकेह्याम्नाताः । वृषभोवर्षकः तुविष्मान् वृद्धिमान्बलवान्वा सप्त सप्रणस्वभावाः सिन्धूनपः सर्तवे- सरणायअवासृजत् अवसृष्टवान् यद्वा गंगाद्याः सप्तमुख्यानदीरवासृजत् यश्चवज्रबाहुः सन् द्यांदिव- मारोहन्तंरौहिणमसुरंअस्फुरत् जघान स्फुरस्फुरणेतुदादिः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः