मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १२, ऋक् १३

संहिता

द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते ।
यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्त॒ः स ज॑नास॒ इन्द्र॑ः ॥

पदपाठः

द्यावा॑ । चि॒त् । अ॒स्मै॒ । पृ॒थि॒वी इति॑ । न॒मे॒ते॒ इति॑ । शुष्मा॑त् । चि॒त् । अ॒स्य॒ । पर्व॑ताः । भ॒य॒न्ते॒ ।
यः । सो॒म॒ऽपाः । नि॒ऽचि॒तः । वज्र॑ऽबाहुः । यः । वज्र॑ऽहस्तः । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

सायणभाष्यम्

अस्मै इन्द्रायद्यावापृथिवी इतरेतरापेक्षयाद्विवचनं प्रमित्रयोर्वरुणयोरितिवत् नमेतेचित् स्वयमे- वप्रह्वीभवतः णमप्रह्वत्वे कर्मकर्तरि नदुहस्नुनमांयक् चिणावितियकः प्रतिषेधः चिदपिच अस्येन्द्र- स्यशुष्मात् बलात्पर्वताभयन्तेबिभ्यति यः सोमपाः सोमस्यपातानिचितः सर्वैः यद्वाअन्येभ्योपिदेवे- भ्योदृढाङ्गः वज्रबाहुः वज्रसदृशबाहुः यश्चवज्रहस्तः वज्रयुक्तकरः सइन्द्रइत्यादिप्रसिद्धम् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः