यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती ।
यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राध॒ः स ज॑नास॒ इन्द्र॑ः ॥
यः । सु॒न्वन्त॑म् । अव॑ति । यः । पच॑न्तम् । यः । शंस॑न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती ।
यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोमः॑ । यस्य॑ । इ॒दम् । राधः॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥
यः सुन्वन्तं सोमाभिषवंकुर्वन्तंयजमानमवतिरक्षति यश्चपुरोडाशादीनिहवींषिपचन्तंयश्चउती- ऊतये सुपांसुलुगितिचतुर्थ्याःपूर्वसवर्णदीर्घः स्वरक्षायैशस्त्राणिशंसन्तंयश्चशशमानं अवति स्तोत्रंकु- र्वाणंरक्षति ब्रह्मपरिवृढंस्तोत्रंयस्यवर्धनंवृद्धिकरंभवति तथायस्यसोमोवृद्धिहेतुर्भवति यस्यचइदम- स्मदीयंराधः पुरोडाशदिलक्षणमन्नंवृद्धिकरंभवति सइन्द्रइत्यादिमसिद्धम् ॥ १४ ॥