मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् १

संहिता

ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते ।
तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्य॑म् ॥

पदपाठः

ऋ॒तुः । जनि॑त्री । तस्याः॑ । अ॒पः । परि॑ । म॒क्षु । जा॒तः । आ । अ॒वि॒श॒त् । यासु॑ । वर्ध॑ते ।
तत् । आ॒ह॒नाः । अ॒भ॒व॒त् । पि॒प्युषी॑ । पयः॑ । अं॒शोः । पी॒युष॑म् । प्र॒थ॒मम् । तत् । उ॒क्थ्य॑म् ॥

सायणभाष्यम्

ऋतुर्वर्षाख्यःकालः जनित्री सोमस्यजनयित्रीजननीभवति तस्याःपरि तस्याः जनन्याः सकाशा- ज्जातः सोमः अपउदकानिमक्षुशीघ्रमाविशत् यास्वप्सुसोमोवर्धते ताअविशदित्यन्वयः तत्तस्मादप्सु- प्रविष्टत्वात् सोमआहनाआहन्त्व्योअभिषोतव्योभवति आहनाइतिसकारान्तमिदंपदम् तथाचमन्त्रव- र्णः—येतेमदाआहनसोविहायसइति । याचांशुरूपसोमलता पयः सारभूतं पिप्युषीवर्धयन्त्यभवत् प्यायतेर्लिटक्विसौलिड्यङोश्चेतिपीभावः वसोःसम्प्रसारणं उगितश्चेति ङीप् अंशोस्तस्याः सोमलता- याः पीयूषंरसभूतंपयः उक्थंप्रशस्यं हविरिन्द्रस्यतत्प्रथमंमुख्यं भवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०