मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् २

संहिता

स॒ध्रीमा य॑न्ति॒ परि॒ बिभ्र॑ती॒ः पयो॑ वि॒श्वप्स्न्या॑य॒ प्र भ॑रन्त॒ भोज॑नम् ।
स॒मा॒नो अध्वा॑ प्र॒वता॑मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्य॑ः ॥

पदपाठः

स॒ध्री । ई॒म् । आ । य॒न्ति॒ । परि॑ । बिभ्र॑तीः । पयः॑ । वि॒श्वऽप्स्न्या॑य । प्र । भ॒र॒न्त॒ । भोज॑नम् ।
स॒मा॒नः । अध्वा॑ । प्र॒ऽवता॑म् । अ॒नु॒ऽस्यदे॑ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

सध्री अञ्चतेर्लुक् छान्दसःसहस्यसध्रिरितिसध्र्यदेशः अन्तोदात्तत्वेननिपातितः सध्रीचीनाः पय- उदकंपरिपरितोबिभ्रतीर्बिभ्राणाः ईंएतानद्यः आय्न्तिसर्वतोगच्छन्ति तानद्योविशप्स्याय विश्वासा- मपामाश्रयभूतायसमुद्रयभोजनं भुज्यतइतिभोजनंपयः प्रभरन्त प्रकर्षेणसंपादयन्ति कुतएतत्तदाह प्रवतांप्रवणवतांनिम्नगानांपयसामनुष्यदे कृत्यार्थेतवैकेन्केन्यन्यत्वनइतिक्रेन् प्रत्ययः अनुष्यन्दनीयो- ध्वामार्गः समानएकोहियस्तातानिसोमोत्पादननदीप्रवर्तनादीनिकर्माणिप्रथमंपूर्वंअक्रुणोः अकरोः सतादृङ्महिमोपेतस्त्वंउक्थ्योसि सर्वैःप्रशस्योभवसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०