मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् ३

संहिता

अन्वेको॑ वदति॒ यद्ददा॑ति॒ तद्रू॒पा मि॒नन्तद॑पा॒ एक॑ ईयते ।
विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्य॑ः ॥

पदपाठः

अनु॑ । एकः॑ । व॒द॒ति॒ । यत् । ददा॑ति । तत् । रू॒पा । मि॒नन् । तत्ऽअ॑पाः । एकः॑ । ई॒य॒ते॒ ।
विश्वाः॑ । एक॑स्य । वि॒ऽनुदः॑ । ति॒ति॒क्ष॒ते॒ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

यजमानोयद्धविर्देवेभ्योददाति तदेकोहोतानुवदतियाज्यापुरोनुवाक्याभ्यां देवताःस्मारयति ए- कोध्यर्युः रूपा पश्वादीनांरूपाणिमिनन् हिंसन् तदपाः तद्विशसनाख्यमपःकर्मयस्यतादृशः सन्तत्ईय- ते देवयजनेसर्वत्रगच्छति एकस्याध्वर्योर्विश्वाविनुदः सर्वाणितत्कर्तृकाणिविक्षेपणरूपाणिकर्मवैगु- ण्यानितितिक्षते तद्योग्यप्रायश्चित्तकरणेनब्रह्मसहते गुप्तिज्किड्भ्यःसन् क्षमायामिष्यते तानिहविः प्रदानादीनिकर्माणियस्त्वमकृणोरकरोः सत्वमुक्थ्योसि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०