मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् ४

संहिता

प्र॒जाभ्य॑ः पु॒ष्टिं वि॒भज॑न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव॑न्तमाय॒ते ।
असि॑न्व॒न्दंष्ट्रै॑ः पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्य॑ः ॥

पदपाठः

प्र॒ऽजाभ्यः॑ । पु॒ष्टिम् । वि॒ऽभज॑न्तः । आ॒स॒ते॒ । र॒यिम्ऽइ॑व । पृ॒ष्ठम् । प्र॒ऽभव॑न्तम् । आ॒ऽय॒ते ।
असि॑न्वन् । दंष्ट्रैः॑ । पि॒तुः । अ॒त्ति॒ । भोज॑नम् । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

हेइन्द्र पुष्टिंत्वयादत्तंपोषकंधनंस्वकीयाभ्यः प्रजाभ्यः विभजन्तः अस्यैतावदस्यैतावदिति विभा- गंकुर्वन्तोगृहमेधिनआसते स्वस्वगृहेषुनिवसन्ति तत्रदृष्टान्तः—आयतेगृहंप्रत्यगच्छतेतिथयेपृष्टंधारकं प्रभवन्तं बहुभरणसमर्थं रयिमिवधनंयथाविभज्यप्रयच्छन्तितद्वत् असिन्वन् सेतुबन्धादिकंकर्मकुर्वन् लोकाः पितुः पालयित्र्यादिवःसकाशात् आगतंभोजनमुदकंतत्कार्याओषधीः दंष्ट्रैर्दन्तैरत्तिभक्षयति यद्वा असिन्वन् अव्याप्रियमाणोग्निः पितुः पालकस्ययजमानस्यसंबन्धिभोजनंहविर्लक्षणमन्नंदंष्ट्रैर्दन्त- रूपैर्ज्वालैरत्ति यस्ताकृणोरित्यादिसिद्धम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०