मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् ६

संहिता

यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्दु॒दोहि॑थ ।
स शे॑व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्य॑ः ॥

पदपाठः

यः । भोज॑नम् । च॒ । दय॑से । च॒ । वर्ध॑नम् । आ॒र्द्रात् । आ । शुष्क॑म् । मधु॑ऽमत् । दु॒दोहि॑थ ।
सः । शे॒व॒ऽधिम् । नि । द॒धि॒षे॒ । वि॒वस्व॑ति । विश्व॑स्य । एकः॑ । ई॒शि॒षे॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

हेइन्द्र यस्त्वंभोजनंभुज्यतेइतिभोजनमन्नादिव दयसे यजमानेभ्यःप्रच्छसि दयदानगतिरक्षणहिं- साग्रहणेषु आत्मनेपदी किञ्च वर्धनंवृद्धिकरंधनंबलंवादयसे तथाआर्द्रात्काण्डात् शुष्कमनार्द्रंवीह्यादि- कं मधुमत् मधुररसोपेतं आदुदोहिथ दुग्धवानसि दुहेर्लिटिक्रादिनियमादिडागमः सतादृशस्त्वंविव- स्वति तेपरिचरणंकुर्वाणेयजमानेथेवधिंधनसदनंदधिषे निदधासि किंबहुनाविश्वस्यसर्वस्यजगतः एकः अद्वितीयःएवसन् ईशिषे स्वामीभवसि ईशऎश्वर्ये ईशःसेइतीइतीडागमः सइत्यादिसिद्धम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११