मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् ७

संहिता

यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॒॑वनी॒रधा॑रयः ।
यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भित॒ः सास्यु॒क्थ्य॑ः ॥

पदपाठः

यः । पु॒ष्पिणीः॑ । च॒ । प्र॒ऽस्वः॑ । च॒ । धर्म॑णा । अधि॑ । दाने॑ । वि । अ॒वनीः॑ । अधा॑रयः ।
यः । च॒ । अस॑माः । अज॑नः । दि॒द्युतः॑ । दि॒वः । उ॒रुः । ऊ॒र्वान् । अ॒भितः॑ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

हेइन्द्र यस्त्वं पुष्पिणीः पुष्पवतीश्चप्रस्वः प्रसूताः प्रसूयमानावा अवनीरवित्रीरोषधीः दानेधि दीयन्ते उपलूयन्तेसस्यान्यत्रेतिदानंक्षेत्रं अधिकरणेल्युट् तस्मिन्क्षेत्रे धर्मणा सकललक्षणेनकर्मणाच व्यधारयः न्यदधाः यश्चत्वंदिवोद्योतमानस्य सूर्यस्यअसमाः विषमाः नानाप्रकारादिद्युतः दीप्तीः रजनः अजनयः यद्वा दिवोनक्षत्राणि जनेर्लङिव्य्तत्ययेनशप् यश्चोरुः महांस्त्वं अभितः सर्वतः ऊर्वान् महतः प्राणिनिकायान् पर्वतान्वा अजनयः शिष्ठंस्पष्टम् ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११