मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् १०

संहिता

विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन॑म् ।
षळ॑स्तभ्ना वि॒ष्टिर॒ः पञ्च॑ सं॒दृश॒ः परि॑ प॒रो अ॑भव॒ः सास्यु॒क्थ्य॑ः ॥

पदपाठः

विश्वा॑ । इत् । अनु॑ । रो॒ध॒नाः । अ॒स्य॒ । पौंस्य॑म् । द॒दुः । अ॒स्मै॒ । द॒धि॒रे । कृ॒त्नवे॑ । धन॑म् ।
षट् । अ॒स्त॒भ्नाः॒ । वि॒ऽस्तिरः॑ । पञ्च॑ । स॒म्ऽदृशः॑ । परि॑ । प॒रः । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

विश्वेत् सुपांसुलुगितिजसआकारः सर्वाएवरोधनाः रोधस्वत्योनद्यः अस्येन्द्रस्यपौंस्यंपुंसोभावः पौंस्यं वीर्यमितियावत् अनु तद्वीर्यमनुवर्तन्ते अस्मैइन्द्रायददुः हविर्लक्षणमन्नंयजमानाः प्रयच्छन्ति किञ्च कृत्नवेकर्मणांकर्त्रेइन्द्रायधनंदधिरे सर्वजनाधारयन्ति तथाचमन्त्रः—इन्द्रायद्यावओषधीरुता- पोरयिंरक्षन्तिजीरयोवनानीति । विष्टिरोविस्तीर्णः षट्संख्याकाऊर्वीः ताश्चद्यौश्चपृथिवीचाहश्चरा- त्रिश्चापश्चौषधयइत्येवंरूपाः ताअस्तभ्राः नियमितवानसि सन्दृशः सम्यक् पश्यन्तीतिसन्दृशोजनाः पञ्चजनान् परिसर्वतः परः पारयितापालयितावा अभवः भवसि गतमन्यत् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११