मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् ११

संहिता

सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्यं१॒॑ यदेके॑न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑ ।
जा॒तूष्ठि॑रस्य॒ प्र वय॒ः सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा॑स्यु॒क्थ्य॑ः ॥

पदपाठः

सु॒ऽप्र॒वा॒च॒नम् । तव॑ । वी॒र॒ । वी॒र्य॑म् । यत् । एके॑न । क्रतु॑ना । वि॒न्दसे॑ । वसु॑ ।
जा॒तूऽस्थि॑रस्य । प्र । वयः॑ । सह॑स्वतः । या । च॒कर्थ॑ । सः । इ॒न्द्र॒ । विश्वा॑ । अ॒सि॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

वीर् बलवन् हेइन्द्र तववीर्यंसामर्थ्यंसुप्रवाचनंसुष्ठुप्रवचनीयं सर्वैःश्लाघनीयमित्यर्थः किंतत् एकेन- क्रतुनाकर्मणावसुविन्दसे शत्रूणांधनंलभते विदॢलाभे तुदादिःस्वरितेत् यद्वा तदीयंधनं स्तोतृण् प्राप- यसि इतियत् तवप्रशास्यमित्यर्थः किञ्च सहस्वतोबलवतोजातूष्ठिरस्यएतन्नामकः कश्चित्तस्यवयोन्नं- प्रादाः यद्वा जातूष्ठिरस्यजातुकदाचित् सर्वदास्थिरस्यसहस्वतः बलवतोयज्ञादेःकर्मणः संबन्धिव योह विर्लक्षणमन्नंप्र्विन्दसइतिसमन्वयः यायानीमानिअन्याविशासर्वाणिकर्माणिचकर्थ कृतवानसि सता- दृशस्त्वंउक्थ्यः सर्वैः प्रशंसनीयोसि भवसि ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२