मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् १२

संहिता

अर॑मय॒ः सर॑पस॒स्तरा॑य॒ कं तु॒र्वीत॑ये च व॒य्या॑य च स्रु॒तिम् ।
नी॒चा सन्त॒मुद॑नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न्त्सास्यु॒क्थ्य॑ः ॥

पदपाठः

अर॑मयः । सर॑ऽअपसः । तरा॑य । कम् । तु॒र्वीत॑ये । च॒ । व॒य्या॑य । च॒ । स्रु॒तिम् ।
नी॒चा । सन्त॑म् । उत् । अ॒न॒यः॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । श्र॒वय॑न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

हेइन्द्र सरपसः सरणमपःकर्मयासांताः सरपसः शकन्ध्वादित्वात्पररूपत्वम् ताअपः कंसुखेन तराय तरणायअरमयः अक्रीडयः किञ्च तुर्वीतयेतुर्वीतिर्नामकश्चिद्राजर्षिः तस्मैवय्यायच वय्यो- नामकश्चित् तस्मै ताभ्यांस्रुतिंसरणं प्रतिअरमयः तौहिजलपूर्णांमहानदींदृष्ट्वातरायतरीतुमसम- र्थावास्तां तौचत्वयातारितौ परावृजं परितः पापानिवृणक्तिदहतीतिपरावृक् कश्चिदृषिः तमप्सु- निमग्नंतथानीचानीचंसन्तंउदनयः आपद्भ्यःऊर्ध्वंनीतवानसि किञ्च अन्धंसन्तं श्रोणंपङ्गुंसन्तं चक्षु- र्दानादपङ्गुकरणाच्चउदनयः किंकुर्वन् प्रकर्षेणश्रवयन् आत्मानंकीर्तिमन्तं कुर्वन् उदनयइतिसमन्वयः सइत्यादिसिद्धम् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२