मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १३, ऋक् १३

संहिता

अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राध॒ः सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् ।
इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

अ॒स्मभ्य॑म् । तत् । व॒सो॒ इति॑ । दा॒नाय॑ । राधः॑ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य॑म् ।
इन्द्र॑ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु॑ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

वसो सर्वस्यवासकवसुमन्वा हेइन्द्र स्तोतृभ्योस्मभ्यंतद्राधोधनंदानायउपलक्षणमेतत् भोगाय- चसमर्थयस्व देहि अस्मान्सङ्गमयेत्यर्थः अर्थयाचने चुरादिरदन्तआत्मनेपदी तेतवतद्वहुप्रभूतंवसव्यं- वस्वेववसव्यंवस्वादित्वात् स्वार्थिकोयत् तादृशंप्रभूतंधनमस्तिखलु चित्रंचायनीयं यद्धनंअनुद्यून् अन्वहंकालाध्वनोरितिद्वितीया श्रवस्याः भोग्यमिच्छेः अन्तर्णीतण्यर्थत्वादकर्मकत्वम् यथारोदितीति सत्वन्यः द्वेह्यत्रकर्मणीउद्देश्यकर्मचविधेयकर्मान्तर्भूतम् उद्देश्यकर्मणासकर्मकोभविष्यति यथामाणव- कः पुत्रीयतीतिभाष्येउदाहृतम् श्रवःशब्दाच्छन्दसिपरेच्छायांक्यप् तदन्तस्यलेट्यडागमेरूपम् सुवी- राः कल्याणपुत्रपौत्राःसन्तोवयंविदथेस्मिन् यज्ञेबृहत्प्रभूतंशस्त्रादिकंवाक्यंवदेम ॥ १६ ॥

अध्वर्यवोभ्रतेतिद्वादशर्चंतृतीयंसूक्तम् गार्त्समदंत्रैष्टुभमैन्द्रं अध्वर्य्वोद्वादशेत्यनुक्रान्तम सूक्तविनि- योगोलैङ्गिकः अतिरात्रेप्रथमेपर्यायेहोतुःशस्त्रयाज्याअध्वर्यवइत्येषा अध्वर्यवोभरतेन्द्रायसोममिति- याज्येतिसूत्रितम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२