मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १४, ऋक् १

संहिता

अध्व॑र्यवो॒ भर॒तेन्द्रा॑य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्ध॑ः ।
का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ॥

पदपाठः

अध्व॑र्यवः । भर॑त । इन्द्रा॑य । सोम॑म् । आ । अम॑त्रेभिः । सि॒ञ्च॒त॒ । मद्य॑म् । अन्धः॑ ।
का॒मी । हि । वी॒रः । सद॑म् । अ॒स्य॒ । पी॒तिम् । जु॒होत॑ । वृष्णे॑ । तत् । इत् । ए॒षः । व॒ष्टि॒ ॥

सायणभाष्यम्

गृत्समदोब्रूते अध्वर्यवः अध्वरस्यनेतारः अध्वरंयजमानायेच्छन्तः कव्यध्व्रपृतनस्यर्चिलोपइत्य- कारलोपः अत्रयास्कः—अध्वर्युरध्वरयुध्वरंयुनक्त्यध्वरस्यनेताध्वरंकामयतइति । हेअध्वर्यवः इन्द्रा- यदेवायसोमहविर्धानादुत्तरवेदिंप्रतिभरतहरत आमन्त्रितस्याविद्यमानत्वादनिधातः हृत्वाअमत्रेभिः अमासहअदंत्यत्रहोत्रादयइतिअमत्राणिचमसाः तैः मद्यंमदकरमन्धः सोमलक्षणमन्नंआसिञ्चतअग्नौ प्रक्षिपत अत्रयास्कः—आसिञ्चतमत्रैर्मदनीयमन्धोमत्रंपात्रममाअस्मिन्नदन्तीति । वीरःसइन्द्रः अस्य सोमस्यपीतिंपानंप्रतिसदसदैवकामीहि कामयमानोहि तस्मात् वृष्णोवर्षित्रे इन्द्रायसोमंजुहोतजुहुत हुदानादनयोः लोटि तप्तनप्तनथनाश्चेतिवतादेशः एषइन्द्रः तदित् तदेवसोमद्रव्यंवष्टि कामयते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३