मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १४, ऋक् २

संहिता

अध्व॑र्यवो॒ यो अ॒पो व॑व्रि॒वांसं॑ वृ॒त्रं ज॒घाना॒शन्ये॑व वृ॒क्षम् ।
तस्मा॑ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इन्द्रो॑ अर्हति पी॒तिम॑स्य ॥

पदपाठः

अध्व॑र्यवः । यः । अ॒पः । व॒व्रि॒ऽवांस॑म् । वृ॒त्रम् । ज॒घान॑ । अ॒शन्या॑ऽइव । वृ॒क्षम् ।
तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शाय॑ । ए॒षः । इन्द्रः॑ । अ॒र्ह॒ति॒ । पी॒तिम् । अ॒स्य॒ ॥

सायणभाष्यम्

हेअध्वर्यवः यइन्द्रः अपउदकानिवव्रिवांसंआवृत्यस्थितंवृत्रं वृणोत्याकाशमितिवृत्रोमेघः तंमेघं- वज्रेणजघानहतवान् अशन्येव यथाअशन्यावैद्युताग्निनावृक्षंदहतितद्वत् तस्मैतद्वशायसोमकामाय- तस्माइन्द्रायएतंसोमंभरत उत्तरवोदिंप्रतिहरत एषइन्द्रः अस्यसोमस्यपीतिंपानमर्हति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३