मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १४, ऋक् ३

संहिता

अध्व॑र्यवो॒ यो दृभी॑कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः ।
तस्मा॑ ए॒तम॒न्तरि॑क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रै॑ः ॥

पदपाठः

अध्व॑र्यवः । यः । दृभी॑कम् । ज॒घान॑ । यः । गाः । उ॒त्ऽआज॑त् । अप॑ । हि । व॒लम् । वरिति॒ वः ।
तस्मै॑ । ए॒तम् । अ॒न्तरि॑क्षे । न । वात॑म् । इन्द्र॑म् । सोमैः॒ । आ । ऊ॒र्णु॒त॒ । जूः । न । वस्त्रैः॑ ॥

सायणभाष्यम्

हेअध्वर्यवः यइन्द्रः द्रुभीकंसर्वान् विदारयति भियंकरोतीतिदृभीकोनामासुरः तमसुरंजघान यश्च वलासुरेणनिरुद्धागाउदाजत् निरगमयत् ततश्चतमेवव्लमसुरंअपवः अपावृणोत् हिंसितवानित्यर्थःहि प्रसिद्धः वृणोतेर्लुङि मन्त्रेघसेत्यादिनाच्लेर्लुक् हल्ङ्यादिनातिपोलोपः तस्माइन्द्रायएतं सोमं अन्तरि- क्षेवातंन वातमिव धाराफ़्भिर्व्याप्तंकुरुत तदेवाह सोमैरिन्द्रंआऊर्णुत सर्वतआच्छादयत ऊर्णुञ् आ- च्छादने आदादिकः लोटिरूपम् तत्रदृष्टान्तः—जूःन जीर्णोयथावस्त्रैरङ्गमाच्छादयति तद्वत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३