मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १४, ऋक् ४

संहिता

अध्व॑र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं॑ नव॒तिं च॑ बा॒हून् ।
यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिन्द्रं॒ सोम॑स्य भृ॒थे हि॑नोत ॥

पदपाठः

अध्व॑र्यवः । यः । उर॑णम् । ज॒घान॑ । नव॑ । च॒ख्वांस॑म् । न॒व॒तिम् । च॒ । बा॒हून् ।
यः । अर्बु॑दम् । अव॑ । नी॒चा । ब॒बा॒धे । तम् । इन्द्र॑म् । सोम॑स्य । भृ॒थे । हि॒नो॒त॒ ॥

सायणभाष्यम्

हेअध्वर्यवः यइन्द्रः नवनवतिंचएकोनशतंबाहून् चख्वांसं चष्टेरिदंरूपं यद्वा खनतेःक्वसौरूपं जने- लोपः छान्दसंरूपं सर्वस्यदर्शयन्तम यद्वा आत्मनोदेहेनिखातवन्तं उरणं एतन्नामकमसुरं जघान यश्च- अर्बुदं एतन्नामकमसुरंचनीचाधोमुखंकृत्वाअवबबाधेतमेनमिन्द्रंसोद्मस्यभृथेसोमंबिभ्रति पात्रेहिनो- तवर्धयत यद्वा सोमस्यभृथेभरणेसंपादनेसतिहिनोत स्तोत्रैःप्रीणयत हिगतिवृद्ध्योः स्वादिः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३