मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १४, ऋक् ५

संहिता

अध्व॑र्यवो॒ यः स्वश्नं॑ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं॑सम् ।
यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इन्द्रा॒यान्ध॑सो जुहोत ॥

पदपाठः

अध्व॑र्यवः । यः । सु । अश्न॑म् । ज॒घान॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । यः । विऽअं॑सम् ।
यः । पिप्रु॑म् । नमु॑चिम् । यः । रु॒धि॒ऽक्राम् । तस्मै॑ । इन्द्रा॑य । अन्ध॑सः । जु॒हो॒त॒ ॥

सायणभाष्यम्

हेअध्वर्यवः यइन्द्रः अश्नंअश्नाति भक्षयति प्राणिजातमिति यद्वा अश्रुते स्वतेजसासर्वं व्याप्नोतीति- अश्नः कश्चिदसुरः तमसुरंसुसुष्ठुजघान यःअशुषंकेनाप्यशोषणीयंशुष्ण मसुरं यश्च तं असुरंव्यंसंअंसही- नंक्रुत्वाजघान यश्चपिप्रुंतेजसाजगद्भ्याप्यवर्तमानंएतन्नामकमसुरंनमुचिंचासुरं जघान यश्च तैत्तिरीय- के—नमुचिमासुरंनालभतेतिप्रकृत्यफेनेनशिरउदवर्तयदित्यन्तेनवाक्यसन्दर्भेणनमुचिवधःप्रपञ्चितः । तथामन्त्रश्च—अपांफेनेननमुचेः शिरइन्द्रोदवर्तयइति । रुधिक्रांएतन्नामकमसुरंयश्चजघानतस्माइन्द्रा यअन्धसोहविर्लक्षणन्यन्नानिजुहोत जुहुत ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३