मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १४, ऋक् ६

संहिता

अध्व॑र्यवो॒ यः श॒तं शम्ब॑रस्य॒ पुरो॑ बि॒भेदाश्म॑नेव पू॒र्वीः ।
यो व॒र्चिनः॑ श॒तमिन्द्र॑ः स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै ॥

पदपाठः

अध्व॑र्यवः । यः । श॒तम् । शम्ब॑रस्य । पुरः॑ । बि॒भेद॑ । अश्म॑नाऽइव । पू॒र्वीः ।
यः । व॒र्चिनः॑ । श॒तम् । इन्द्रः॑ । स॒हस्र॑म् । अ॒प॒ऽअव॑पत् । भर॑त । सोम॑म् । अ॒स्मै॒ ॥

सायणभाष्यम्

हेअध्वर्यवः यइन्द्रः शंबरस्यमायाविनोसुरस्यपूर्वीः पुरातनीः शतंपुरः पुरीः अश्मनेवअश्मसदृशे- नवज्रेणबिभेद यश्चेन्द्रोवर्चिनः वर्चदीप्तौ गमेरिनिरितिविधीयमानइनिर्बहुलवचनादस्माद्भवति यद्वा नामैतत् तस्यासुरस्यशतंसहस्रंएतत्संख्याकानपरिमितान्वीरान्पुत्रान् अपावपत् युगपदेवभूम्यामपा- तयत् तथाचमन्त्रवर्णः—शतंवर्चिनःसहस्रंचसाकंहथोअप्रत्यसुरस्यवीरानिति । अस्मैइन्द्रायसोमं- भरत ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३