मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १४, ऋक् ७

संहिता

अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान् ।
कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ॥

पदपाठः

अध्व॑र्यवः । यः । श॒तम् । आ । स॒हस्र॑म् । भूम्याः॑ । उ॒पऽस्थे॑ । अव॑पत् । ज॒घ॒न्वान् ।
कुत्स॑स्य । आ॒योः । अ॒ति॒थि॒ऽग्वस्य॑ । वी॒रान् । नि । अवृ॑णक् । भर॑त । सोम॑म् । अ॒स्मै॒ ॥

सायणभाष्यम्

हेअध्वर्यवः आजघन्वान् पूर्वंशत्रून् हतवान् यइन्द्रः शतं सहस्रमसुरान् भूम्याउपस्थे उत्सङ्गेअव- पत् एकैकेनप्रकारेणापातयत् किञ्च यःकुत्सस्यएतन्नामकस्यराजर्षेः आयोः पौरूरवस्यराजर्षेः अति- थिग्वस्यदिवोदासस्य एतेषांत्रयाणांवीरानभिगन्तॄन् प्रतिद्वन्द्विनः शुष्णादीनसुरान् न्यावृणक् वृणा- क्तिर्हिंसाकर्मा अवधीत् तथाचमन्त्रवर्णः—त्वंकुत्संशुष्णहत्ये ष्वाविथारन्धयोतिथिग्वायशंबरमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४