मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १४, ऋक् ८

संहिता

अध्व॑र्यवो॒ यन्न॑रः का॒मया॑ध्वे श्रु॒ष्टी वह॑न्तो नशथा॒ तदिन्द्रे॑ ।
गभ॑स्तिपूतं भरत श्रु॒तायेन्द्रा॑य॒ सोमं॑ यज्यवो जुहोत ॥

पदपाठः

अध्व॑र्यवः । यत् । न॒रः॒ । क॒मया॑ध्वे । श्रु॒ष्टी । वह॑न्तः । न॒श॒थ॒ । तत् । इन्द्रे॑ ।
गभ॑स्तिऽपूतम् । भ॒र॒त॒ । श्रु॒ताय॑ । इन्द्रा॑य । सोम॑म् । य॒ज्य॒वः॒ । जु॒हो॒त॒ ॥

सायणभाष्यम्

नरः कर्मणांनेतारः हेअध्वर्यवः यदभिलषितमर्थंकामयाध्वे कामयतेर्लेट्यडागमः श्रुष्टी क्षिप्रं इन्द्रे- सोमवहन्तः प्रापन्तोयूयंतदभषितंफलंनशथप्राप्नुत श्रुतायलोकेप्रसिद्धायेन्द्रायगभस्तिपूतंहस्ताभ्यां-मार्जनदोहनादिभिःशोधितंसोमंभरत उत्तरवेदिंप्रतिहरत ततोयज्यवः यागंकुर्वाणाहेअध्वर्यवः आहृ- तंसोममिन्द्रायजुहोतजुहुत अग्नौप्रक्षिपत । ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४