मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १४, ऋक् ९

संहिता

अध्व॑र्यव॒ः कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू॑तं॒ वन॒ उन्न॑यध्वम् ।
जु॒षा॒णो हस्त्य॑म॒भि वा॑वशे व॒ इन्द्रा॑य॒ सोमं॑ मदि॒रं जु॑होत ॥

पदपाठः

अध्व॑र्यवः । कर्त॑न । श्रु॒ष्टिम् । अ॒स्मै॒ । वने॑ । निऽपू॑तम् । वने॑ । उत् । न॒य॒ध्व॒म् ।
जु॒षा॒णः । हस्त्य॑म् । अ॒भि । वा॒व॒शे॒ । वः॒ । इन्द्रा॑य । सोम॑म् । म॒दि॒रम् । जु॒हो॒त॒ ॥

सायणभाष्यम्

हेअध्वर्यवः अस्माइन्द्रायसोमंश्रुष्टिंसुखकरंकर्तनकुरुत कोतेर्लोटिबहुलंछ्दीतिविकरणस्यलुक् तप्त- नप्तनथनाश्चेतितनबादेशः आमन्त्रितस्याविद्यमानत्वान्ननिघातः किञ्च वनेसंभजनीयेवनेउदकेनिपूत- माप्यायनेनशोधितसोममुन्नयध्वंऊर्ध्वंनयत यद्वा वनेतद्विकारेचमसेनिपूतंदशापवित्रेणशोधितंसोमं वनेचम्से उन्नयध्वं जुषाणः प्रीयमाणः सइन्द्रः वोयुष्महस्त्यंहस्ताभ्यामभिषुतंसोमंअभिवावशे काम- यते वश्कान्तौ यङ्लुगन्तस्यलटिव्यत्ययेनात्मनेपदं लोपस्तआत्मनेपदेष्वितितलोपः मदिरंमदकरमि- मंसोमंइन्द्रायजुहोतन्द्रोद्देशेनाग्नौप्रक्षिपत ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४