मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १४, ऋक् १०

संहिता

अध्व॑र्यव॒ः पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् ।
वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्स॑न्तं॒ भूयो॑ यज॒तश्चि॑केत ॥

पदपाठः

अध्व॑र्यवः । पय॑सा । ऊधः॑ । यथा॑ । गोः । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् ।
वेद॑ । अ॒हम् । अ॒स्य॒ । निऽभृ॑तम् । मे॒ । ए॒तत् । दित्स॑न्तम् । भूयः॑ । य॒ज॒तः । चि॒के॒त॒ ॥

सायणभाष्यम्

हेअध्वर्यवः यथागोरूधः पयसापूर्णंतद्वदीमेनंभोजंफलस्यदातारंरक्षितारंचेन्द्रंसोमेभिः सोमैः पृ- णतपूरयत मेमदीयस्यास्यसोमस्यएतत् एतंनिभृतंगूढंसुखसाधनस्वभावमहमेववेदजानामि इतिपू- र्वंनपरस्मैकथितं तथापियुष्मभ्यंब्रवीमीत्येवंदित्सन्तंसोमंदातुमिच्छन्तंयजमानंयजतोयष्टव्यइन्द्रोभू- योतिशयेनचिकेतजानाति दित्सतं डुदाञ् दाने इच्छायांसन् सनिमीमाध्वितिआकारस्यइसादेशः अत्रलोपोभ्यासस्येत्यभ्यासलोपः सः स्यार्धधातुकइतिसकारस्यतत्वम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४