मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १५, ऋक् २

संहिता

अ॒वं॒शे द्याम॑स्तभायद्बृ॒हन्त॒मा रोद॑सी अपृणद॒न्तरि॑क्षम् ।
स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

पदपाठः

अ॒वं॒शे । द्याम् । अ॒स्त॒भा॒य॒त् । बृ॒हन्त॑म् । आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । अ॒न्तरि॑क्षम् ।
सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ॑त् । च॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

सायणभाष्यम्

अवंशेआकाशेद्यांद्योतमानंसूर्यंद्युलोकंवा अस्तभायत् इन्द्रः अस्तभ्रात् अनवलंबनस्यतस्थावस्था- पनमकरोदित्यर्थः स्तंभुइतिसौत्रोधातुः क्र्यादिः लङिव्यत्ययोबहुलमितिअहावपि शायजदेशः बृहंतं- महदन्तरिक्षं रोदसीद्यावापृथिव्यौचआअपृणत् स्वतेजसापूरितवान् किञ्च सइन्द्रः पृथिवींविस्तीर्णां- भूमिंधारयत् अधारयत् तथा पप्रथच्च एनांभूमिंअप्रथयत् प्रथप्रख्याने ण्यन्तस्यलुङिचङिरूपम् चङ्य- न्यतरस्यामितिमध्योदात्तत्वं सोमस्यमदेहर्षेसञ्चातेसति ता तानीमानिकर्माणीन्द्रश्चकार ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५