मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १५, ऋक् ३

संहिता

सद्मे॑व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना॑म् ।
वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

पदपाठः

सद्म॑ऽइव । प्राचः॑ । वि । मि॒मा॒य॒ । मानैः॑ । वज्रे॑ण । खानि॑ । अ॒तृ॒ण॒त् । न॒दीना॑म् ।
वृथा॑ । अ॒सृ॒ज॒त् । प॒थिऽभिः॑ । दी॒र्घ॒ऽया॒थैः । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

सायणभाष्यम्

सद्मेव यथायज्ञगृहान्मानैः षट् त्रिंश्त्प्रक्रमप्राचीत्येवंरूपैःपरिमाणैः प्राक् प्रवणान्कुर्वन्ति तद्वत् सिन्धून् लोकान्वानृजून्मानैः परिमाणैः प्राचः प्राङ्मुखान्विमिमाय इन्द्रोविशेषेणनिर्मितवान् तथा- नदीनांखानिनिर्गमनद्वाराणिवज्रेणचअतृणत् अखनत् तृहिहिंसानादरयोः रुधादिलङ् तथाचमन्त्रः— इन्द्रोअस्माँअरदद्वज्रबाहुरिति । तथादीर्घयाथैः बहुकालंगन्तव्यैः पथिभिर्मार्गैः वृथासृजत् अनाया- सेनतानदीःसृष्टवान् सोमस्येतिसिद्धार्थइति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५