मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १५, ऋक् ४

संहिता

स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या॑ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ ।
सं गोभि॒रश्वै॑रसृज॒द्रथे॑भि॒ः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

पदपाठः

सः । प्र॒ऽवो॒ळ्हॄन् । प॒रि॒ऽगत्य॑ । द॒भीतेः॑ । विश्व॑म् । अ॒धा॒क् । आयु॑धम् । इ॒द्धे । अ॒ग्नौ ।
सम् । गोभिः॑ । अश्वैः॑ । अ॒सृ॒ज॒त् । रथे॑भिः । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

सायणभाष्यम्

प्राक्विलचुमुरिधुनिप्रभृतयोसुराः दभीतेःपुरंसंरुध्यतंपरिगृह्यतस्मात्पुरान्निरगुरितिकथा सइन्द्रः दभीतेः दभीतिर्नामकश्चिद्राजर्षिः तस्यप्रवोह्ळ्न् प्रवोढृन् सहिव्होरोदवर्णस्येत्योत्वम् प्रकर्षेणतं- दभीतिंवहतस्तानसुरान्मध्येमार्गंपरिगत्यतेषांविश्वंसर्वमायुधमिद्धेग्नौदीप्यमानेवह्नौअधाक् अधा- क्षित् दहेर्लुङि मन्त्रेघसेत्यादिनाच्लेर्लुक् पश्चात्तंदभीतिंगोभिरश्वैरथेभिः रथैश्चसमसृजत् संयोजित- वान् सोमस्येत्यादिसिद्धमिति ॥ ४ ॥ अतिमूर्तिनाम्न्येकाहेमरुत्वतीयेसूक्तमुखीया अतिमूर्तिनेतिखण्डेसूत्रितम्—सईंमहींधुनिमेतो- ररम्णादिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५