मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १५, ऋक् ५

संहिता

स ईं॑ म॒हीं धुनि॒मेतो॑ररम्णा॒त्सो अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति ।
त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थु॒ः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

पदपाठः

सः । ई॒म् । म॒हीम् । धुनि॑म् । एतोः॑ । अ॒र॒म्णा॒त् । सः । अ॒स्ना॒तॄन् । अ॒पा॒र॒य॒त् । स्व॒स्ति ।
ते । उ॒त्ऽस्नाय॑ । र॒यिम् । अ॒भि । प्र । त॒स्थुः॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

सायणभाष्यम्

सइन्द्रः ईमेनांमहींमहतीं धुनिं धुनोतिस्तोतॄणांपापानीतिधुनिः परुष्णीनदी तां एतोः ईश्वर- पदासन्निधानेपि तोसुन्प्रत्ययः ऋषीणांगमनार्थंअरम्णात् उपाशमयत् महाजलांनदींअल्पोदकाम- करोदित्यर्थः सइन्द्रः अस्नातॄन् स्नातुमशक्तान् तरणासमर्थानृषीन् स्वस्तिक्षेमेणअपरयत् तेमहर्षयः उत्स्नायतांनदीमुत्तीर्ययंरयिमपेक्ष्यगच्छन्ति तंरयिंअभिलक्ष्यप्रतस्थुः प्रतस्थिरे शिष्टंसिद्धम् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५