मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १५, ऋक् ७

संहिता

स वि॒द्वाँ अ॑पगो॒हं क॒नीना॑मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् ।
प्रति॑ श्रो॒णः स्था॒द्व्य१॒॑नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

पदपाठः

सः । वि॒द्वान् । अ॒प॒ऽगो॒हम् । क॒नीना॑म् । आ॒विः । भव॑न् । उत् । अ॒ति॒ष्ठ॒त् । प॒रा॒ऽवृक् ।
प्रति॑ । श्रो॒णः । स्था॒त् । वि । अ॒नक् । अ॒च॒ष्ट॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

सायणभाष्यम्

पुराकिलकन्यकाः चक्षुर्हीनंपादहीनंपरावृजंजिघृक्षुमृषिंदृष्ट्वाभिदुद्रुवुः ततःसऋषिः इन्द्रं स्तु- त्वाचक्षुःपादंचलेभे तदेतदाह सःकनीनांकन्यकानांअपगोहं अपगोहनंतिरोभावं विद्वान् परावृगृषिः आविर्भवन् सर्वेषांप्रत्यक्षोभवन् उदतिष्ठन् श्रोणः पूर्वंपङ्मुरिदानींइन्द्रस्यप्रसादाद्विभग्नजानुः ताः कन्याः प्रतिस्थात् पूर्वमन्धः अधुनचक्षुर्लाभाद्भ्यचष्ट ताः कन्यकाः विशेषेणपश्यति स्म तानीमानि- कर्माणि सइन्द्रश्चकार ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६