मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १५, ऋक् ८

संहिता

भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै॑रत् ।
रि॒णग्रोधां॑सि कृ॒त्रिमा॑ण्येषां॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

पदपाठः

भि॒नत् । व॒लम् । अङ्गि॑रःऽभिः । गृ॒णा॒नः । वि । पर्व॑तस्य । दृं॒हि॒तानि॑ । ऐ॒र॒त् ।
रि॒णक् । रोधां॑सि । कृ॒त्रिमा॑णि । ए॒षा॒म् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

सायणभाष्यम्

अङ्गिरोभिर्गृणानः स्तूयमानः सइन्द्रः वलंवलनामकमसुरंभिनत् अभिनत् तथागवांनिरोधक- स्यपर्वतस्यदृंहितानिशिलाभिर्दृढीकृतानिद्वाराणि व्यैरत् उद्घाटितवान् तदेवाह एषांपर्वतानां कृत्रि- माणिक्रिययानिर्वृत्तानिरोधांसिनिरुद्धानिद्वाराणिरिणक् उदघटयत् गतमन्यत् ॥ ८ ॥ अतिमूर्तिनाम्न्येकाहे निष्केवल्येसूक्तमुखीयास्वप्नेनेत्येषा सूत्रितम्—स्वप्नेनाभ्युप्याचुमुरिंधुनिं- चेतिसूक्तमुखीयेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६