मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १५, ऋक् ९

संहिता

स्वप्ने॑ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं॑ च ज॒घन्थ॒ दस्युं॒ प्र द॒भीति॑मावः ।
र॒म्भी चि॒दत्र॑ विविदे॒ हिर॑ण्यं॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥

पदपाठः

स्वप्ने॑न । अ॒भि॒ऽउप्य॑ । चुमु॑रिम् । धुनि॑म् । च॒ । ज॒घन्थ॑ । दस्यु॑म् । प्र । द॒भीति॑म् । आ॒वः॒ ।
र॒म्भी । चि॒त् । अत्र॑ । वि॒वि॒दे॒ । हिर॑ण्यम् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

सायणभाष्यम्

सत्वंदस्युंसर्वस्योपक्षपयितारंचुमुरिंधुनिंच एतन्नामानावसुरौस्वप्नेनदीर्घनिद्रयाअभ्युप्य संयोज्य- जघंथहतवानसि ततस्ताभ्यांयुध्यमानंदभीतिंराजर्षिंप्रावः रक्षितवानसि तथाचमन्त्रवर्णः—त्वंनिद- स्युंचुमुरिंधुनिंचास्वापयोदभीतयेसुहन्त्विति । आवः अवतेरक्षणार्थस्यलङिसिपिरूपम् रंभीचित् वेत्रधारीचास्यदौवारिकः अत्रास्मिन्युद्धेतयोरसुरयोरसुरयोर्हिरण्यंधनंविविदेलेभे विदॢलाभे स्वरिते- त् तानीमानिकर्माणिसोमस्यमदेसतिचकारेति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६