मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १५, ऋक् १०

संहिता

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ ।
शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।
शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

एषाऋग्व्याख्याता ॥ १० ॥

प्रवः सतामितिनवर्चंपञ्चमंसूक्तंगार्त्समदमैन्द्रम् अत्रानुक्रमणिका—प्र्वोनवान्त्यात्रिष्टुबिति नव- मीत्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषयाजगत्यः तृतीयेपर्यायेच्छावाकशस्त्रेप्रवःसतामितिसूक्तम् अतिरा- त्रेइतिखण्डेसूत्रितम्—प्रवः सतांप्रोद्रोणेहरयःकर्माग्मन्नितियाज्येति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६