मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १६, ऋक् १

संहिता

प्र वः॑ स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे ।
इन्द्र॑मजु॒र्यं ज॒रय॑न्तमुक्षि॒तं स॒नाद्युवा॑न॒मव॑से हवामहे ॥

पदपाठः

प्र । वः॒ । स॒ताम् । ज्येष्ठ॑तमाय । सु॒ऽस्तु॒तिम् । अ॒ग्नौऽइ॑व । स॒म्ऽइ॒धा॒ने । ह॒विः । भ॒रे॒ ।
इन्द्र॑म् । अ॒जु॒र्यम् । ज॒रय॑न्तम् । उ॒क्षि॒तम् । स॒नात् । युवा॑नम् । अव॑से । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

गृत्समदोब्रूते हेयजमानाः वोयुष्मदर्थंसतांमहतांदेवानांज्येष्थतमायअतिशयेनश्रेष्ठायइन्द्रायतदर्थं अग्नाविवसमिधाने इवशब्दएवार्थः दीप्यमानएवाग्नौहविःप्रभरे संपादयामि ततः परंसुष्टुतिंशोभनां- स्तुतिंकरोमि भरेति भृञ् भरणे ञित्त्वादुभयपदी लटिरूपं अजुर्यमजरणीयंजरयन्तंसर्वमन्यज्जरयन्तं उक्षितंसोमेनसिक्तंसनात् सनातनंयुवानंनित्यतरुणंतादृशमिन्द्रमवसेस्माकंरक्षणायतस्यतर्पणायवा हवामहे आह्वयामः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७