मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १६, ऋक् २

संहिता

यस्मा॒दिन्द्रा॑द्बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मि॒न्त्सम्भृ॒ताधि॑ वी॒र्या॑ ।
ज॒ठरे॒ सोमं॑ त॒न्वी॒३॒॑ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु॑म् ॥

पदपाठः

यस्मा॑त् । इन्द्रा॑त् । बृ॒ह॒तः । किम् । च॒न । ई॒म् । ऋ॒ते । विश्वा॑नि । अ॒स्मि॒न् । सम्ऽभृ॑ता । अधि॑ । वी॒र्या॑ ।
ज॒ठरे॑ । सोम॑म् । त॒न्वि॑ । सहः॑ । महः॑ । हस्ते॑ । वज्र॑म् । भर॑ति । शी॒र्षणि॑ । क्रतु॑म् ॥

सायणभाष्यम्

बृहतोमहतः यस्मादिन्द्रादृतेकिमपिईमिदंजगत् चननास्तीत्यर्थः चेतिनेतिनिपातद्वयसमुदायश्च- नेति चेतिचिदित्यर्थे नेतिनिषिद्धार्थे ऎकपद्यंतुसांप्रदायिकं उक्तार्थेमन्त्रः—नेन्द्रादृतेपवतेधामकिञ्चने- ति । यद्वा इन्द्रादृतेईमिदंजगत् किंचनक्षुद्रमत्यल्पमित्यर्थः कुतएतत्तदेवोच्यते—अस्मिन्निन्द्रेविश्वा- निसर्वाणिवीर्यवीर्याणिसामर्थ्यानिअधिसंभृताधिकंसंभृतान्यासुते यश्चेन्द्रोजठरेस्वोदरेसोममभिषुतं- सोमरसंभरतिबिभर्ति किञ्च तन्वि तन्वांस्वकीयेसर्वस्मिन शरीरेसहोबलंमहस्तेजश्चबिभर्ति हस्तेव- ज्रमायुधंबिभर्ति शीर्षणिशिरसिक्रतुंविज्ञानंभरतिबिभर्ति यद्वृत्तयोगादनिघातः वाक्यभेदाद्वानिघा- ताभावः शीर्षणि शीर्षंश्छ्न्दसीति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७