मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १६, ऋक् ३

संहिता

न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथः॑ ।
न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभि॒ः पत॑सि॒ योज॑ना पु॒रु ॥

पदपाठः

न । क्षो॒णीभ्या॑म् । प॒रि॒ऽभ्वे॑ । ते॒ । इ॒न्द्रि॒यम् । न । स॒मु॒द्रैः । पर्व॑तैः । इ॒न्द्र॒ । ते॒ । रथः॑ ।
न । ते॒ । वज्र॑म् । अनु॑ । अ॒श्नो॒ति॒ । कः । च॒न । यत् । आ॒शुऽभिः॑ । पत॑सि । योज॑ना । पु॒रु ॥

सायणभाष्यम्

हेइन्द्र तेतवइन्द्रियंबलंक्षोणीभ्यांद्यावापृथिवीभ्यांनपरिभ्वे नपरिभवनीयंक्रुत्यार्थेतवैकेन्केन्य- त्वनइतिकेन्प्रत्ययः उदात्तस्वरितयोरितिस्वरितत्वं किञ्च तेरथः समुद्रैः पर्वतैश्चनपरिभवनीयः तेव- ज्रमायुधंकश्चनपुमान् नान्वश्नोति नव्याप्नोतिपरिभवितुं अशूव्याप्तौव्यत्ययेनपरस्मैपदम् यद्यदाऽ– सुरवधार्थंदिग्विजयकाले आशुभिः शीघ्रगामिभिरश्वैः पुरुपुरूणिबहूनियोजनायोजनानिपतसि गच्छसि तदातवबलादिनपरिभवनीयमितिसमन्वयः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७