मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १६, ऋक् ४

संहिता

विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भर॑न्ति वृष॒भाय॒ सश्च॑ते ।
वृषा॑ यजस्व ह॒विषा॑ वि॒दुष्ट॑र॒ः पिबे॑न्द्र॒ सोमं॑ वृष॒भेण॑ भा॒नुना॑ ॥

पदपाठः

विश्वे॑ । हि । अ॒स्मै॒ । य॒ज॒ताय॑ । धृ॒ष्णवे॑ । क्रतु॑म् । भर॑न्ति । वृ॒ष॒भाय॑ । सश्च॑ते ।
वृषा॑ । य॒ज॒स्व॒ । ह॒विषा॑ । वि॒दुःऽत॑रः । पिब॑ । इ॒न्द्र॒ । सोम॑म् । वृ॒ष॒भेण॑ । भा॒नुना॑ ॥

सायणभाष्यम्

हेयजमान विशेसर्वेजनाः यजतायसर्वैर्यजनीयायधृष्णवेशत्रूणांधर्षणशीलाय वृषभायकामानांव-र्षित्रेस्श्चतेसज्जमानायस्तुत्यादिकर्मवत्सुस्तोतृषुएतादृशायास्माइन्द्रायक्रतुंयज्ञादिलक्षणंकर्मभरन्तिहि हरन्तिखलु प्र्णयन्तीत्यर्थः भरन्ति हियोगादनिघातः यस्मादेवंतस्माद्वृषासोमरससेचनसमर्थः विदु- ष्टरः विद्वच्छब्दात्तरपिछान्दसंसंप्रसारणं शासिवसिघसीनांचेतिसंहितायांषत्वम् विद्वत्तरस्त्वंहविषा- तमिन्द्रंयजस्व इदानीमिन्द्रंसंबोध्यआह—हेइन्द्र वृषभेणकामानांवर्षकेणभानुनादीप्यमानेनाग्निनास- हसोमंपिब ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७