मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १६, ऋक् ५

संहिता

वृष्ण॒ः कोशः॑ पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना॑य वृष॒भाय॒ पात॑वे ।
वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒ अद्र॑यो॒ वृष॑णं॒ सोमं॑ वृष॒भाय॑ सुष्वति ॥

पदपाठः

वृष्णः॑ । कोशः॑ । प॒व॒ते॒ । मध्वः॑ । ऊ॒र्मिः । वृ॒ष॒भऽअ॑न्नाय । वृ॒ष॒भाय॑ । पात॑वे ।
वृष॑णा । अ॒ध्व॒र्यू इति॑ । वृ॒ष॒भासः॑ । अद्र॑यः । वृष॑णम् । सोम॑म् । वृ॒ष॒भाय॑ । सु॒स्व॒ति॒ ॥

सायणभाष्यम्

हेइन्द्र वृष्णः फलस्यवर्षितुः मध्वः मदकरस्यसोमस्यकोशोरसः ऊर्मिः अनुष्ठातॄणां पातॄणांचप्रेरकः सन् पवतेगच्छति पवगतौ अनुदात्तेत् किमर्थं वृषभान्नाय बलवर्षकानिअन्नानि यस्यसतथोक्तः तादृ- शायवृषभायकामानंवर्षित्रे इन्द्रायपातवेपानार्थंपवतइतिसमन्वयः किञ्च वृषणासोमरससेचनसमर्थौ अध्वर्यूअध्वर्युप्रतिप्रस्थातारौवृषभासः वर्षकाअद्रयोभिषवग्रावाणश्चवृषणंस्वर्गादिफ्बलस्यसेक्तारं सोमंवृषभायदेवानांश्रेष्ठायतुभ्यंसुष्वति सुन्वन्ति सुनोतेर्लटिबहुलंछन्दसीतिविकरणस्यश्लुः अदभ्य- स्तादितिझेरदादेशः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७