मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १६, ऋक् ६

संहिता

वृषा॑ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी॑ वृष॒भाण्यायु॑धा ।
वृष्णो॒ मद॑स्य वृषभ॒ त्वमी॑शिष॒ इन्द्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ॥

पदपाठः

वृषा॑ । ते॒ । वज्रः॑ । उ॒त । ते॒ । वृषा॑ । रथः॑ । वृष॑णा । हरी॒ इति॑ । वृ॒ष॒भाणि॑ । आयु॑धा ।
वृष्णः॑ । मद॑स्य । वृ॒ष॒भ॒ । त्वम् । ई॒शि॒षे॒ । इन्द्र॑ । सोम॑स्य । वृ॒ष॒भस्य॑ । तृ॒प्णु॒हि॒ ॥

सायणभाष्यम्

वृषभ कामानांवर्षक हेइन्द्र तेतववज्रः वृषाकामवर्षकः तथातेरथोपिवृषा तेहरीएतन्नामकावश्वौ वृषणावर्षकौतवआयुधावज्रव्यतिरिक्तान्यायुधान्यपिवृषभाणि वृष्णोवर्षकस्यमदस्य मदकरस्यसोम- स्यत्वमेवईशिषे स्वामीभवसि हेइन्द्र वृषभस्यवर्षकेणसोमस्यसोमेनतृप्णुहि तृप्तोभव तृपप्रीणने स्वा- दिः क्षुभ्रादिषु नृमन तृमोतीतिपठितं तथापिसर्वविधीनांछन्दसिविकल्पितत्वादत्रणत्वप्रतिषेधोनभ- वति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८