मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् १६, ऋक् ७

संहिता

प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः ।
कु॒विन्नो॑ अ॒स्य वच॑सो नि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒ न वसु॑नः सिचामहे ॥

पदपाठः

प्र । ते॒ । नाव॑म् । न । सम॑ने । व॒च॒स्युव॑म् । ब्रह्म॑णा । या॒मि॒ । सव॑नेषु । दधृ॑षिः ।
कु॒वित् । नः॒ । अ॒स्य । वच॑सः । नि॒ऽबोधि॑षत् । इन्द्र॑म् । उत्स॑म् । न । वसु॑नः । सि॒चा॒म॒हे॒ ॥

सायणभाष्यम्

दाधृषिः त्वत्प्रसादात् शत्रूणांधर्षकोहं समनएसंग्रामेवचस्युवं अमि तन्वादित्वादुवङादेशः स्ता- त्रमिच्छन्तंनावंन नावमिव आपद्भ्यस्तारकं तेत्वांसवनेषुत्रिषुब्रह्मणास्तोत्रेणप्रयामिप्राप्नोमि किञ्च नोस्माकंअस्यवचसः स्तुतिलक्षणमेतद्वाक्यं कुविद्बहुनिबोधिषत् इन्द्रोनितरांबुध्यतां बुधअवगमने लिटिसिब्बहुलमितिसिप् कुविद्योगादनिघातः तिङिचोदात्तवतीतिगतेर्निघातः वयंचउत्संन जलस्य- निधानभूतंकूपमिव वसुनोनिधानभूतमिन्द्रंसिचामहे सोमेनसिंचामः सिचिर् क्षरणे स्वरितेत् आग- मानुशासनस्यानित्यत्वान्नुमभावः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८